Ethics, Law & Political Sciences

CSU Prayagraj

Research Topics: Arthashastram & Shukraneeti

Principal Investigator: Prof. Lalit Kumar Tripathi
Research Scholar: Pankaj Kumar Sharma

Arthashastram

ग्रन्थस्य विवरणम् : पूर्वाचार्यैः स्वदेशस्य सुखशान्तिसमृद्धये समाजस्य समेषां जनानासमुन्नतये च नैकाः अर्थशास्त्रग्रन्थाः निर्मिताः। देशकालपरिस्थितिं ज्ञात्वा धर्मदण्डेन सञ्चालिता राजनीतिः सर्वेभ्यः हितकरी भवतु इत्येवासीदेषां शास्त्राणां प्रमुखोद्देश्यम्। तत्र आचार्यकौटिल्येनापि साङ्गोपाङ्गवेदमधीत्य उपलब्धान् अर्थशास्त्रग्रन्थान् सम्यगालोड्य च समाजस्य सर्वविध-उन्नतये कौटिलीयमर्थशास्त्रं निर्मितम्। शुक्रं बृहस्पतिञ्च नमस्कृत्य अर्थशास्त्रस्य प्रयोजने आचार्यः लिखति-

पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यैकमिदमर्थशास्त्रं कृतम्॥

कौटिल्येन अस्मिन् शास्त्रे आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति चतस्रः विद्या इति स्वीकृत्य तेषामाधारेण एव विषयः प्रतिपादितः। विद्यासामर्थकथने उक्तम्-

श्रुताद्धि प्रज्ञोपजायते, प्रज्ञया योगः, योगादात्मवत्ता इति विद्यासामर्थ्यम्

अस्मिन् कौटिलीयेऽर्थशास्त्रे पञ्चदशाधिकरणानि सपञ्चाशदध्यायाः साशीतिशतप्रकरणानि षट्सहस्रञ्च च श्लोकाः सन्ति। एषः ग्रन्थः सरलतमरीत्या सरहस्यं राज्यानुपालनविधिं, शासनविधिं भेदादीन् विदेशनीतिञ्च सम्यक् विवृणोति।

Shukraneeti

ग्रन्थस्य विवरणम् : महर्षिः शुक्राचार्यः स्वग्रन्थे दण्डनीतेः एव प्राधान्यं स्थापयति। आचार्यकौटिल्योऽपि स्वग्रन्थे ‘दण्डनीतिरेका विद्येत्यौशनसाः’ इति वदति। नीतिशास्त्रेषु आचार्यशुक्रस्य स्थानमत्यन्तं गौरवास्पदं वर्तते। आचार्यकौटिल्यः स्वग्रन्थस्य प्रारम्भः शुक्रं बृहस्पतिञ्च स्मृत्वा एव करोति। अस्मिन् ग्रन्थे पञ्च अध्यायाः सन्ति। चतुर्थेऽध्याये सप्त  प्रकरणानि सन्ति। सप्तषष्ट्युत्तरपञ्चशताधिकद्विसहस्रश्लोकात्मकोऽयं ग्रन्थो वर्तते।

राज्योत्पत्ति,  राज्ञः लक्षणम्, राज्ञः कर्तव्यानि, राज्यस्य उत्तराधिकारी इत्यादयः अस्य ग्रन्थस्य प्रमुखाः विषयाः सन्ति। आचार्यशुक्रः स्वग्रन्थे राजामन्त्रिमित्रकोषराष्ट्रदुर्गबलानीति सप्त राज्याङ्गानि प्रतिपादयति। 

अनयोः ग्रन्थयोः वाक्यस्तरे तन्त्रयुक्तिचयनं पदस्वाक्ययोः स्तरे च सम्बन्धचयनं कृत्वा शास्त्रीयाभिव्यक्तिपुरःसरं यान्त्रिकसंरचना शोधार्थिभ्यः विद्यार्थिभ्यः देशस्य सञ्चालने प्रवृत्ताभ्यः संस्थाभ्यः अवश्यमेवोपयोगिनी भविष्यति।

MPSVV, Ujjain

Research Topic : Kamandakiya Nitisaara About Kamandakiya Nitisaara:

Principal Investigator/Research Scholar: Dr. STP Kanakavalli
Research Associate: Dr. Preeti Upadyay

The Kamandakiyanitisaara is a highly authentic work on Ethics and Polity written by Author Kamandaki. The book contains 20 sargas and 1261 slokas.

1) The importance of criminal jurisprudence for all classes

2) Morality and purity

3) Politics & Governance

4) Life Management

5) Fundamental education and rights.

6) Military strategy and intelligence

7) Foreign policy, trade, and commerce

The book is profusely illustrated with War Policy charts to elucidate its rich content. It is also co-related with other subjects Like Economics, Political Science, Jurisprudence, Penology, Theology, Diplomacy, War Policy, Indian Philosophy, Hindu Religious TextsHindu LiteratureVedaUpanishad, and Fundamental Education.

Bibliography of the project

  • त.गणपति शास्त्री, नीतिसार:-कामान्दकीय, राजकीय मुद्रणयन्त्रालय, त्रिवेन्द्रम्-1912
  • पं.ज्वालाप्रसाद जी मिश्र, कामान्दकीयनीतिसार:, श्रीवेंकटेश्वर  (स्ट्रीम ) यन्त्रालय  मुद्रित , बंबई-1961.
  • Raja Dr. rajendralala mitra, The nitisara or the elements of polity by kamandaki, the Baptist Mission Press, Kolkata, 1982.